श्री दत्तात्रेयोपनिषत् : सकाळी व संध्याकाळी दररोज फक्त ५ मिनिटे पाठ l सर्व दुःख दारिद्रय त्वरित शमनार्थ


॥ श्री दत्तात्रेयोपनिषत् ॥

दत्तात्रेयीब्रह्मविद्यासंवेद्यानन्दविग्रहम् ।
त्रिपान्नारायणाकरं दत्तात्रेयमुपास्महे ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥



हरिः ॐ ॥ सत्यक्षेत्रे ब्रह्मा नारायणं महासाम्राज्यं किं तारकं तन्नो ब्रूहि भगवन्नित्युक्तः सत्यानन्दचिदात्मकं सात्त्विकं मामकं धामोपास्वेत्याह । सदा दत्तोऽहमस्मीति प्रत्येतत्संवदन्ति येन ते संसारिणो भवन्ति नारायणेनैवं विवक्षितो ब्रह्मा विश्वरूपधरं विष्णुं नारायणं दत्तात्रेय घ्यात्वा सद्वदति । दमिति हंसः । दामिति दीर्घं तद्बीजं नाम बीजस्थम् । दामित्येकाक्षरं भवति । तदेतत्तारकं भवति । तदेवोपासितव्यं विज्ञेयं गर्भादितारणम् । गायत्री छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता । वटबीजस्थमिव दत्तबीजस्थं सर्वं जगत् । एतदेवैकाक्षरं व्याख्यातम् ।


ll दत्तात्रेयषडक्षरमन्त्रः ll

व्याख्यास्ये षडक्षरम् । ओमिति प्रथमम् । श्रीमिति द्वितीयम् । ह्रीमिति तृतीयम् । क्लीमिति चतुर्थम् । ग्लौमिति पञ्चमम् । द्रामिति षट्कम् । षडक्षरोऽयं भवति । सर्वसम्पद्वृद्धिकरी भवति । योगानुभवो भवति । गायत्री छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता । ॐ श्रीं ह्रीं क्लीं ग्लौं द्रां इति षडक्षरोऽयं भवति ।

द्रमित्युक्त्वा द्रामित्युक्त्वा वा दत्तात्रेयाय नम इत्यष्टाक्षरः । दत्तात्रेयायेति सत्यानन्दचिदात्मकम् । नम इति पूर्णानन्दकविग्रहम् । गायत्री छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता । दत्तात्रेयायेति कीलकम् । तदेव बीजम् । नमः शक्तिर्भवति । ओमिति प्रथमम् । आमिति द्वितीयम् । ह्रीमिति तृतीयम् । क्रोमिति चतुर्थम् । एहीति तदेव वदेत् । दत्तात्रेयेति स्वाहेति मन्त्रराजोऽयं द्वादशाक्षरः । जगती छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता । ओमिति बीजम् । स्वाहेति शक्तिः । सम्बुद्धिरिति कीलकम् । द्रामिति हृदये । ह्रीं क्लीमिति शीर्षे । एहीति शिखायाम् । दत्तेति कवचे । आत्रेयेति चक्षुषि । स्वाहेत्यस्त्रे । तन्मयो भवति । य एवं वेद । षोडशाक्षरं व्याख्यास्ये । प्राणं देयम् । मानं देयम् । चक्षुर्देयम् । श्रोत्रं देयम् । षड्दशशिरश्छिनत्ति षोडशाक्षरमन्त्रे न देयो भवति । अतिसेवापरभक्तगुणवच्छिष्याय वदेत् । ओमिति प्रथमं भवति । ऐमिति द्वितीयम् । क्रोमिति तृतीयम् । क्लीमिति चतुर्थम् । क्लूमिति पञ्चमम् । ह्रामिति षष्ठम् । ह्रीमिति सप्तमम् । ह्रूमित्यष्टमम् । सौरिति नवमम् । दत्तात्रेयायेति चतुर्दशम् । स्वाहेति षोडशम् । गायत्री छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता । ॐ बीजम् । स्वाहा शक्तिः । चतुर्थ्यन्तं कीलकम् । ओमिति हृदये । क्लां क्लीं क्लूमिति शिखायाम् । सौरिति कवचे । चतुर्थ्यन्तं चक्षुषि । स्वाहेत्यस्त्रे । यो नित्यमधीयानः सच्चिदानन्द सुखी मोक्षी भवति । सौरित्यन्ते श्रीवैष्णव इत्युच्यते । तज्जापी विष्णुरूपी भवति । अनुष्टुप् छन्दो व्याख्यास्ये । सर्वत्र सम्बुद्धिरिमानीत्युच्यन्ते । दत्तात्रेय हरे कृष्ण उन्मत्तानन्ददायक । दिगम्बर मुने बालपिशाच ज्ञानसागर ॥ १॥ इत्युपनिषत् । अनुष्टुप् छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता दत्तात्रेयेति हृदये । हरे कृष्णेति शीर्षे । उन्मत्तानन्देति शिखायाम् । दायकमुन इति कवचे । दिगम्बरेति चक्षुषि । पिशाचज्ञानसागरेत्यस्त्रे । आनुष्टुभोऽयं मयाधीतः । अब्रह्मजन्मदोषाश्च प्रणश्यन्ति । सर्वोपकारी मोक्षी भवति । य एवं वेदेत्युपनिषत् ॥ १॥


इति दत्तात्रेयोपनिषत्सु प्रथमः खण्डः ॥ १॥

ओमिति व्याहरेत् । ॐ नमो भगवते दत्तात्रेयाय स्मरणमात्रसन्तुष्टाय महाभयनिवारणाय महाज्ञानप्रदाय चिदानन्दात्मने बालोन्मत्त- पिशाचवेषायेति महायोगिने अवधूतायेति अनसूयानन्दवर्धनायात्रिपुत्रायेति सर्वकामफल- प्रदाय ओमिति व्याहरेत् । भवबन्धमोचनायेति ह्रीमिति व्याहरेत् । सकलविभूति दायेति क्रोमिति व्याहरेत् । साध्याकर्षणायेति सौरिति व्याहरेत् । सर्वमनः- क्षोभणायेति श्रीमिति व्याहरेत् । महोमिति व्याहरेत् । चिरञ्जीविने वषडिति व्याहरेत् । वशीकुरुवशीकुरु वौषडिति व्याहरेत् । आकर्षयाकर्षय हुमिति व्याहरेत् । विद्वेषयविद्वेषय फडिति व्याहरेत् । उच्चाटयोच्चाटय ठठेति व्याहरेत् । स्तम्भय- स्तम्भय खखेति व्याहरेत् । मारयमारय नमः सम्पन्नाय नमः सम्पन्नाय स्वाहा पोषयपोषय परमन्त्रपरयन्त्रपरतन्त्रांश्छिन्धिच्छिन्धि ग्रहान्निवारयनिवारय व्याधीन्निवारयनिवारय दुःखं हरयहरय दारिद्र्यं विद्रावयविद्रावय देहं पोषयपोषय चित्तं तोषयतोषयेति सर्वमन्त्र- सर्वयन्त्रसर्वतन्त्रसर्वपल्लवस्वरूपायेति ॐ नमः शिवायेत्युपनिषत् ॥ २॥




इति दत्तात्रेयोपनिषत्सु द्वितीयः खण्डः ॥ २॥

य एवं वेद । अनुष्टुप् छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता । ओमिति बीजम् । स्वाहेति शक्तिः । द्रामिति कीलकम् । अष्टमूर्त्यष्टमन्त्रा भवन्ति । यो नित्यमधीते वाय्वग्निसोमादित्यब्रह्मविष्णुरुद्रैः पूतो भवति । गायत्र्या शतसहस्रं जप्तं भवति । महारुद्रशतसहस्रजापी भवति । प्राणवायुतकोटिजप्तो भवति । शतपूर्वाञ्छतापरान्पुनाति । स पङ्क्तिपावनो भवति । ब्रह्महत्यादिपातकैर्मुक्तो भवति । गोहत्यादिपातकैर्मुक्तो भवति । तुलापुरुषादिदानैः प्रपापानतः पूतो भवति । अशेषपापान्मुक्तो भवति । भक्ष्याभक्ष्यपापैर्मुक्तो भवति । सर्वमन्त्रयोगपारीणो भवति । स एव ब्राह्मणो भवति । तस्माच्छिष्यं भक्तं प्रतिगृह्णीयात् । सोऽनन्तफलमश्नुते । स जीवन्मुक्तो भवतीत्याह भगवान्नारायणो ब्रह्माणमित्युपनिषत् ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ॥ स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ तत्सत् ॥ इति दत्तात्रेयोपनिषत्समाप्त
म् ॥ 




ह्या पोस्टशी संबंधित माहिती लिंक खालीलप्रमाणे...


Post a Comment

0 Comments

0